गंगा अष्टकम | Ganga Ashtakam

Ganga Ashtakam
Print Friendly, PDF & Email
Rate this post

ह्या पोस्ट मध्ये तुमच्यासाठी गंगा अष्टकम | Ganga Ashtakam online वाचायला प्रस्तुत करत आहे.

Ganga Ashtakam | गंगा अष्टकम

भगवति तव तीरे नीरमात्राशनोऽहं
विगतविषयतृष्ण: कृष्णमाराधयामि ।
सकलकलुषभङ्गे स्वर्गसोपानसङ्गे
तरलतरतरङ्गे देवि गङ्गे प्रसीद ॥ १॥

भगवति भवलीलामौलिमाले तवांभः
कणमणुपरिमाणं प्राणिनो ये स्पृशन्ति ।
अमरनगरनारीचामरग्राहिणीनां
विगतकलिकलंकातंकमंके लुठन्ति ॥ २॥

ब्रह्माण्डं खण्डयन्ती हरशिरसि जटावल्लिमुल्लासयन्ती
स्वर्लोकादापतन्ती कनकगिरिगुहागण्डशैलात्स्खलन्ती।
क्षोणीपृष्ठे लुठन्ती दुरितचयचमू निर्भरं भर्त्सयन्ती
पाथोधिं पूरयन्ती सुरनगरसरित्पावनी नः पुनातु ॥ ३॥

मज्जन्मातंगकुंभच्युतमदमदिरामोदमत्तालिजालं
स्नानैः सिद्धांगनानां कुचयुगविगलत्कुङ्कुमासंगपिङ्गम् ।
सायं प्रातर्मुनीनां कुशकुसुमचयैश्छन्नतीरस्थनीरं पायान्नो
गांगमंभः करिकरमकराक्रान्तरंहस्तरंगम् ॥ ४॥

आदावादिपितामह्स्य नियमव्यापारपात्रे जलं पश्चात्
पन्नगशायिनो भगवतः पादोदकं पावनम्।
भूयः शंभुजटाविभूषणमणिर्जह्नोर्महर्षेरियं कन्या
कल्मषनाशिनी भगवती भागीरथी पातु माम् ॥ ५॥

शैलेन्द्रादवतारिणी निजजले मज्जज्जनोत्तारिणी
पारावारविहारिणी भवभयश्रेणीसमुत्सारिणी ।
शेषांगैरनुकारिणी हरशिरोवल्लीदलाकारिणी
काशीप्रान्तविहारिणी विजयते गंगा मनोहारिणी ॥ ६॥

कुतो वीची वीचीस्तव यदि गता लोचनपथं
त्वमापीता पीतांबरपुरनिवासं वितरसि।
त्वदुत्संगे पतति यदि कायस्तनुभृतां तदा
मातः शान्तक्रतवपदलाभोऽप्यति लघुः ॥ ७॥

भगवति तव तीरे नीरमात्राशनोऽहं
विगतविषयतृष्णः कृष्णमाराधयामि ।
सकलकलुषभंगे स्वर्गसोपानसंगे
तरलतरतरंगे देवि गंगे प्रसीद ॥ ८॥

मातर्जाह्नवि शंभुसंगमिलिते मौलौ निधायाञ्जलिं
त्वत्तीरे वपुषोऽवसानसमये नारायणांघ्रिद्वयम् ।
सानन्दं स्मरतो भविष्यति मम प्राणप्रयाणोत्सवे
भूयाद्भक्तिरविच्युता हरिहराद्वैतात्मिका शाश्वती ॥ ९॥

गंगाष्टकमिदं पुण्यं यः पठेत् प्रयतो
नरः सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ १०॥


LEAVE A REPLY

Please enter your comment!
Please enter your name here