श्री मंगल चंडिका स्तोत्र | Mangal Chandika Stotra Marathi

Mangal Chandika Stotra Marathi
Print Friendly, PDF & Email
Rate this post

ह्या blogpost मध्ये तुमच्यासाठी श्री मंगल चंडिका स्तोत्र | Mangal Chandika Stotra Marathi online वाचायला प्रस्तुत करत आहे.

श्री मंगल चंडिका स्तोत्र | Mangal Chandika Stotra Marathi

ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवी मङ्गलचण्डिके |
ऐं क्रूं फट् स्वाहेत्येवं चाप्येकविन्शाक्षरो मनुः ||

पूज्यः कल्पतरुश्चैव भक्तानां सर्वकामदः |
दशलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम् ||

मन्त्रसिद्धिर्भवेद् यस्य स विष्णुः सर्वकामदः |
ध्यानं च श्रूयतां ब्रह्मन् वेदोक्तं सर्व सम्मतम् ||

|| ध्यान ||

देवीं षोडशवर्षीयां शश्वत्सुस्थिरयौवनाम् |
सर्वरूपगुणाढ्यां च कोमलाङ्गीं मनोहराम् ||

श्वेतचम्पकवर्णाभां चन्द्रकोटिसमप्रभाम् |
वन्हिशुद्धांशुकाधानां रत्नभूषणभूषिताम् ||

बिभ्रतीं कबरीभारं मल्लिकामाल्यभूषितम् |
बिम्बोष्टिं सुदतीं शुद्धां शरत्पद्मनिभाननाम् ||

ईषद्धास्यप्रसन्नास्यां सुनीलोल्पललोचनाम् |
जगद्धात्रीं च दात्रीं च सर्वेभ्यः सर्वसंपदाम् ||
संसारसागरे घोरे पोतरुपां वरां भजे ||

देव्याश्च ध्यानमित्येवं स्तवनं श्रूयतां मुने |
प्रयतः संकटग्रस्तो येन तुष्टाव शंकरः ||

|| शंकर उवाच ||

रक्ष रक्ष जगन्मातर्देवि मङ्गलचण्डिके |
हारिके विपदां राशेर्हर्षमङ्गलकारिके ||

हर्षमङ्गलदक्षे च हर्षमङ्गलचण्डिके |
शुभे मङ्गलदक्षे च शुभमङ्गलचण्डिके ||

मङ्गले मङ्गलार्हे च सर्व मङ्गलमङ्गले |
सतां मन्गलदे देवि सर्वेषां मन्गलालये ||

पूज्या मङ्गलवारे च मङ्गलाभीष्टदैवते |
पूज्ये मङ्गलभूपस्य मनुवंशस्य संततम् ||

मङ्गलाधिष्टातृदेवि मङ्गलानां च मङ्गले |
संसार मङ्गलाधारे मोक्षमङ्गलदायिनि ||

सारे च मङ्गलाधारे पारे च सर्वकर्मणाम् |
प्रतिमङ्गलवारे च पूज्ये च मङ्गलप्रदे ||

स्तोत्रेणानेन शम्भुश्च स्तुत्वा मङ्गलचण्डिकाम् |
प्रतिमङ्गलवारे च पूजां कृत्वा गतः शिवः ||

देव्याश्च मङ्गलस्तोत्रं यः श्रुणोति समाहितः |
तन्मङ्गलं भवेच्छश्वन्न भवेत् तदमङ्गलम् ||

|| इति श्री ब्रह्मवैवर्ते मङ्गलचण्डिका स्तोत्रं संपूर्णम् ||


आशा आहे की तुम्हाला श्री मंगल चंडिका स्तोत्र | Mangal Chandika Stotra Marathi आवडला असेल, जर होय तर कृपया खाली comment करून तुमचे विचार शेअर करा.

LEAVE A REPLY

Please enter your comment!
Please enter your name here