श्री दत्तात्रेय वज्रकवच स्तोत्र | Shri Dattatreya Vajra Kavach Stotra

Shri Dattatreya Vajra Kavach Stotra
Print Friendly, PDF & Email
5/5 - (1 vote)

श्री दत्तात्रेय वज्रकवच स्तोत्र | Shri Dattatreya Vajra Kavach Stotra: ह्या पोस्ट मध्ये तुम्हाला हा स्तोत्र online वाचायला मिळेल.

ह्या page ला bookmark करून ठेवा, म्हणजे तुम्हाला Shri Dattatreya Vajra Kavach Stotra easily ऍक्सेस करता होईल.

Shri Dattatreya Vajra Kavach Stotra | श्री दत्तात्रेय वज्रकवच स्तोत्र

।। श्री गणेशाय नमः ।।
श्री दत्तात्रेयाय नमः ।। ऋषय ऊचुः ।।
कथं संकल्पसिद्धिः स्याद्वेवव्यास कलौ युगे ।
धर्मार्थकाममोक्षाणां साधनं किमुदाहृतं ।। १ ।।

व्यास उवाच ।।
शृण्वन्तु ऋषयः सर्वे शीघ्रं संकल्पसाधनं ।
सकृदुच्चारमात्रेण भोगमोक्षप्रदायकं ।। २ ।।

गौरीशृंगे हिमवतः कल्पवृक्षोपशोभितं ।
दीप्तेदिव्यमहारत्नहेममंडपमध्यगं ।। 3 ।।

रत्नसिंहासनासीनं प्रसन्नं परमेश्वरं ।।
मंदस्मितमुखांभोजं शंकरं प्राह पार्वती ।। ४ ।।

श्री देव्युवाच ।।
देवदेव महादेव लोकशंकर शंकर ।
मंत्रजालानि सर्वाणि यंत्रजालानि कृत्स्नशः ।। ५ ।।

तंत्रजालान्यनेकानि मया त्वत्तः श्रुतानि वै ।
इदानीमं द्रष्टुमिच्छामि विशेषेण महीतलं ।। ६ ।।

इत्युदीरितमाकर्ण्य पार्वत्या परमेश्वरः ।
करेणामृज्य सन्तोषात्पार्वतीं प्रत्यभाषत ।। ७ ।।

मयेदानीं त्वया सार्धं वृषमारुह्य गम्यते ।
इत्युक्त्वा वृषमारुह्य पार्वत्या सह शंकरः ।। ८ ।।

ययौ भूमंडलं द्रष्टुं गौर्याः चित्राणि दर्शयन् ।
क्वचित विंध्याचलप्रान्ते महारण्ये सुदुर्गमे ।। ९ ।।

तत्र व्याहर्तुमायांतं भिल्लंपरशुधारिणं ।
वर्ध्यमानं महाव्याघ्रं नखदंष्ट्राभिरावृतं ।। १० ।।

अतीव चित्रचारित्र्यं वज्रकाय समायुतं ।
अप्रयन्तमनायासमखिन्नं सुखमास्थितं ।। ११ ।।

पलायन्तं मृगं पश्चादव्याघ्रो भीत्या पलायितः ।
एतदाश्चर्यमालोक्य पार्वती प्राह शंकरं ।। १२ ।।

श्री पार्वत्युवाच ।।
किमाश्चर्यं किमाश्चर्यमग्रे शंभो निरीक्ष्यतां ।
इत्युक्तः स ततः शंभुर्दृष्ट्वा प्राह पुराणवित् ।। १३ ।।

श्री शंकर उवाच ।।
गौरी वक्ष्यामि ते चित्रमवाड्मानसगोचरं ।।
अदृष्ट पूर्वं अस्माभिः नास्ति किंचिन्न न कुत्रचित् ।। १४ ।।

मया सम्यक समासेन वक्ष्यते शृणु पार्वति ।
अयं दूरश्रवा नाम भिल्ल परम धार्मिकः ।। १५ ।।

समित्कुशप्रसूनानि कंदमूल फलादिकं ।
प्रत्यहं विपिनं गत्वा समादाय प्रयासतः ।। १६ ।।

प्रिये पूर्वं मुनींद्रेभ्यः प्रयच्छति न वांछति ।
ते अपि तस्मिन्नपि दयां कुर्वते सर्व मौनिनः ।। १७ ।।

दलादनो महायोगी वसन्नेव निजाश्रमे ।
कदाचित स्मरत सिद्धं दत्तात्रेयं दिगम्बरं ।। १८ ।।

दत्तात्रेयः स्मर्तृगामी चेतिहासं परीक्षितुं ।
तत्क्षणात सोSपी योगीन्द्रो दत्तात्रेय उपस्थितः ।। १९ ।।

तद दृष्टवाSSश्चर्यतोषाभ्यां दलादन महामुनिः ।
संपूजाग्रे निषीदन्तं दत्तात्रेमुवाच तं ।। २० ।।

मयोपहूतः संप्राप्तो दत्तात्रेय महामुने ।
स्मर्तुगामी त्वमित्येतत किंवदन्ती परीक्षितुं ।। २१ ।।

मयाद्य संस्मृतोSसि त्वमपराधं क्षमस्व मे ।
दत्तात्रेयो मुनिं प्राह मम प्रकृतिरिदृशी ।। २२ ।।

अभक्त्या वा सुभक्त्या वा यः स्मरेन्मामनन्यधीः ।
तदानीं तमुपागत्य ददामि तदभीप्सितं ।। २३ ।।

दत्तात्रेयो मुनिं प्राह दलादन मुनीश्वरं ।
यदिष्टं तत् वृणीष्व त्वं यत प्राप्तोSहं त्वया स्मृतः ।। २४ ।।

दत्तात्रेयं मुनिः प्राह मया किमपि नोच्यते ।
त्वच्चित्ते यत्स्थीतं तन्मे प्रयच्छ मुनिपुंगव ।। २५ ।।

श्री दत्तात्रेय उवाच ।।
ममास्ति वज्रकवचं गृहाणेत्यवदन्मुनिं ।
तथेत्यंगीकृतवते दलादन मुनये मुनिः ।। २६ ।।

स्ववज्रकवचं प्राह ऋषिच्छन्दः पुरःसरं ।
न्यासं ध्यानं फलं तत्र प्रयोजनमशेषतः ।। २७ ।।

अस्य श्रीदत्तात्रेयवज्रकवचस्तोत्रमंत्रस्य ।। किरातरुपी महारुद्र ऋषिः ।।
अनुष्टुप् छन्दः ।। श्री दत्तात्रेयो देवता ।।
द्रां बीजं ।। आं शक्तिः ।। क्रौं कीलकम् ।।
ओम आं आत्मने नमः ।। ओम द्रीं मनसे नमः ।।
ओम आं द्रीं श्रीं सौः ।।
ओम क्लां क्लीं क्लुं क्लैम् क्लौं क्लः ।।
श्रीदत्तात्रेयप्रसादसिध्यर्थे जपे विनियोगः ।।
अथ करन्यासः ।।
ओम द्रां अंगुष्ठाभ्यां नमः ।। ओम द्रीं तर्जनीभ्यां नमः ।।
ओम द्रूं मध्यमाभ्यां नमः ।। ओम द्रें अनामिकाभ्यां नमः ।।
ओम द्रौं कनिष्ठिकाभ्यां नमः ।। ओम द्रः करतलकरपृष्ठाभ्यां नमः ।।
अथ हृदयादि न्यासः ।।
ओम द्रां हृदयाय नमः ।। ओम द्रीं शिरसे स्वाहा ।।
ओम द्रूं शिखायै वषट् ।। ओम द्रैं कवचाय हुं ।।
ओम द्रौं नेत्रत्रयाय वौषट् ।। ओम द्रः अस्त्राय फट् ।।
ओम भूर्भुवःस्वरोमिति दिग्बंधः ।।

अथ ध्यानं ।।
जगदंकुरकंदाय सच्चिदानंदमूर्तये ।
दत्तात्रेयाय योगींद्रचन्द्राय परमात्मने ।। १ ।।

कदा योगी कदा भोगी कदा नग्नः पिशाचवत् ।
दत्तात्रेयो हरिः साक्षाद्भुक्तीमुक्तीप्रदायकः ।। २ ।।

वाराणसीपुरस्नायी कोल्हापुरजपादरः ।
माहुरीपुरभिक्षाशी सह्यशायी दिगंबरः ।। ३ ।।

इंद्रनीलसामाकारःचंद्रकांतीसमद्दुतिः ।
वैडूर्यसदृशस्फूर्तिःचलत्किंचिज्जटाधरः ।। ४ ।।

स्निग्धधावल्ययुक्ताक्षोSत्यंतनील कनीनिकः ।
भ्रूवक्षःश्मश्रुनीलांकः शशांकसदृशाननः ।। ५ ।।

हासनिर्जितनीहारः कंठनिर्जितकंबुकः ।
मांसलांसो दीर्घबाहुः पाणिर्निर्जितपल्लवाः ।। ६ ।।

विशालपीनवक्षाश्यच ताम्रपाणिर्दलोदरः ।
पृथुलश्रोणिललितो विशालजघनस्थलः ।। ७ ।।

रंभास्तंभोपमानोरुर्जानुपूर्वैकजंघकः ।
गूढगुल्फः कूर्मपृष्टो लसत्पादोपरिस्थलः ।। ८ ।।

रक्तारविंदसदृशरमणीयपदाधरः ।
चर्माम्बरधरो योगी स्मर्तृगामी क्षणे क्षणे ।। ९ ।।

ज्ञानोपदेशनिरतो विपद्धरणदीक्षितः ।
सिद्धासनसमासीन ऋजुकायो हसन्मुखः ।। १० ।।

वामहस्तेन वरदो दक्षिणेनाभयंकरः ।
बालोन्मत्तपिशाचीभिः क्वचिद्दुक्तः परीक्षितः ।। ११ ।।

त्यागी भोगी महायोगी नित्यानंदो निरंजनः ।
सर्वरुपी सर्वदाता सर्वगः सर्वकामदः ।। १२ ।।

भस्मोद्धूलितसर्वांगो महापातकनाशनः ।
भुक्तिप्रदो मुक्तिदाता जीवन्मुक्तो न संशयः ।। १३ ।।

एवं ध्यात्वाSनन्यचित्तो मद्वज्रकवचं पठेत् ।
मामेव पश्यन्सर्वत्र स मया सह संचरेत् ।। १४ ।।

दिगंबरं भस्मसुगंधलेपनं ।
चक्रं त्रिशूलं गरुडम् गदायुधं ।
पद्मासनं योगिमुनीन्द्र वंदितं ।
दत्तेति नामस्मरेण नित्यं ।। १५ ।।

अथ पंचोपचारैः संपूज्य,
ओम द्रां इति १०८ वारं जपेत् ।

अथ वज्रकवचं ।।
ओम दत्तात्रेय शिर: पातु सहस्राब्जेषु संस्थितः ।
भालं पात्वानसूयेय: चंद्रमंडलमध्यग: ।। १ ।।

कुर्च मनोमय: पातु हं क्षं द्विदलपद्मभू: ।
ज्योती रूपोSक्षिणी पातु पातु शब्दात्मक: श्रुती ।। २ ।।

नासिकां पातु गंधात्मा मुखं पातु रसात्मक: ।
जिव्हां वेदात्मक: पातु दन्तोष्ठौ पातु धार्मिकः ।। ३ ।।

कपोलावत्रिभू: पातु पात्वशेषं ममात्मवित् ।
स्वरात्मा षोडशाराब्जस्थित:स्वात्माSवताद् गलम् ।। ४ ।।

स्कन्धौ चंद्रानुज: पातु भुजौ पातु कृतादिभूः ।
जत्रुणी शत्रुजित् पातु पातु वक्षःस्थलं हरिः ।। ५ ।।

कादिठांतद्वादशारपद्मगो मरुदात्मकाः ।
योगीश्वरेश्वरः पातु हृदयं हृदयस्थितः ।। ६ ।।

पार्श्वे हरिः पार्श्ववर्ती पातु पार्श्वस्थितः स्मृतः ।
हठयोगादियोगज्ञः कुक्षी पातु कृपानिधि: ।। ७ ।।

डकारादिफकारान्तदशारसरसीरुहे ।
नाभिस्थले वर्तमानो नाभि वन्ह्यात्मकोSवतु ।। ८ ।।

वन्हितत्त्वमयो योगी रक्षतान्मणि पूरकम् ।
कटिं कटिस्थब्रम्हांड वासुदेवात्मकोSवतु ।। ९ ।।

वकारादिळकारान्तषट्पत्रां बुजबोधकाः ।
जलतत्त्वमयो योगी स्वाधिष्ठानं ममावतु ।। १० ।।

सिद्धासनसमासीन ऊरू सिद्धेश्वरोSवतु ।
वादिसांतचतुष्पत्रसरोरुहनिबोधक: ।। ११ ।।

मूलाधारमं महीरूपो रक्षताद्विर्यनिग्रही ।
पृष्टं च सर्वतः पातु जानुन्यस्तकरांबुजः ।। १२ ।।

जंघे पात्ववधूतेंद्रः पात्वंघ्री तीर्थपावनः ।
सर्वांगं पातु सर्वात्मा रोमाण्यवतु केशवः ।। १३ ।।

चर्म चर्माम्बर:पातु रक्तं भक्तिप्रियोSवतु ।
मांसं मांसकरः पातु मज्जामज्जात्मकोSवतु ।। १४ ।।

अस्थीनिस्तिरधी: पायान्मेधां वेधाः प्रपालयेत् ।
शुक्रं सुखकरः पातु चित्तं पातु दृढाकृतिः ।।१५ ।।

मनोबुद्धिमहंकारं हृषीकेशात्मकोSवतु ।
कर्मेंद्रियाणि पात्वीशः पातु ज्ञानेंद्रियाण्यजः ।। १६ ।।

बंधून् बंधूत्तमः पायाच्छत्रुभ्य: पातु शत्रुजित् ।
गृहारामधनक्षेत्रपुत्रादी:छन्करोSवतु ।। १७ ।।

भार्यां प्रकृतिवित् पातु पश्वादीन्पातु शांर्गभृत् ।
प्राणान्पातु प्रधानज्ञो भक्ष्यादीन्पातु भास्करः ।। १८ ।।

सुखं चंद्रात्मकः पातु दुःखात् पातु पुरांतकाः ।
पशुन्पशुपतिः पातु भूतिं भूतेश्वरो मम ।। १९ ।।

प्राच्यां विषहरः पातु पात्वाग्नेय्यां मखात्मकः ।
याम्यां धर्मात्मकः पातु नैऋत्यां सर्ववैरीहृत् ।। २० ।।

वराह: पातु वारुण्यां वायव्यां प्राणदोSवतु ।
कौबेर्यां धनदः पातु पात्वैशान्यां महागुरुः ।। २१ ।।

ऊर्ध्वं पातु महासिद्धाः पात्वधस्ताज्जटाधरः ।
रक्षाहीनं तु यत्स्थानं रक्षत्वादीमुनीश्वरः ।। २२ ।।

मालामंत्र जपः ।। हृदयादिन्यासः ।।
एतन्मे वज्रकवचं यः पठेत् शृणुयादपि ।
वज्रकायः चिरंजीवी दत्तात्रेयोSहमब्रुवं ।। २३ ।।

त्यागी भोगी महायोगी सुखदुःखविवर्जितः ।
सर्वत्रसिद्धसंकल्पो जीवन्मुक्तोSद्य वर्तते ।। २४ ।।

इत्युक्वाSन्तर्दधे योगी दत्तात्रेयो दिगंबरः ।
दलादनोSपि तज्जप्त्वा जीवन्मुक्तः स वर्तते ।। २५ ।।

भिल्लो दूरश्रवा नाम तदानीं श्रुतवानिदम् ।
सकृत् श्रवणमात्रेण वज्रांगोSभवदप्यसौ ।। २६ ।।

इत्येतद्वज्रकवचं दत्तात्रेयस्य योगिनः ।
श्रुत्वाशेषं शंभूमुखात् पुनरप्याह पार्वती ।। २७ ।।

अथ फलश्रुती ।।
पार्वत्युवाच ।।
एतत्कवचमाहात्म्यं वद विस्तरतो मम ।
कुत्र केन कदा जाप्यं किं यज्जाप्यं कथं कथम् ।। २८ ।।

उवाच शंभुस्तत्सर्वं पार्वत्या विनयोदितम् ।
श्रीशिव उवाच ।
श्रुणु पार्वति वक्ष्यामि समाहितमनाविलम् ।। २९ ।।

धर्मार्थकाममोक्षाणामिदमेव परायणं ।
हस्त्यश्वरथपादातिसर्वैश्वर्यप्रदायकम् ।। ३० ।।

पुत्रमित्रकलत्रादिसर्वसंतोषसाधनम् ।
वेदशास्त्रादिविद्यानां निधानं परमं हि तत् ।। ३१ ।।

संगीतशास्त्रसाहित्यसत्कवित्वविधायकम् ।
बुद्धिविद्यास्मृतिप्रज्ञामतिप्रौढिप्रदायकम् ।। ३२ ।।

सर्वसंतोषकरणं सर्वदुःखनिवारणम् ।
शत्रुसंहारकं शीघ्रं यशःकीर्तिविवर्धनम् । । ३३ ।।

अष्टसंख्या महारोगाःसन्निपातास्त्रयोदश ।
षण्णवत्यक्षिरोगाश्च विंशतिर्मेहरोगकाः ।। ३४ ।।

अष्टादश तु कुष्ठानि गुल्मान्यष्टविधान्यपि ।
अशीतिर्वातरोगाश्च चत्वारिम्शत्तु पैत्तिकाः ।। ३५ ।।

विंशति श्लेष्मरोगाश्च क्षयचातुर्थिकादयः ।
मंत्रयंत्रकुयोगाद्याः कल्पतंत्रादिनिर्मिताः । । ३६ ।।

ब्रह्मराक्षसवेताल कुष्मान्डादिग्रहोद् भवाः ।
संघजा देशकालस्थास्तापत्रयसमुत्थिताः ।। ३७ ।।

नवग्रहसमुद्भुता महापातकसंभवाः ।
सर्वे रोगा प्रणश्यन्ति सहस्रावर्तनाद् ध्रुवम् ।। ३८ ।।

अयुतावृत्तिमात्रेण वंध्या पुत्रवती भवेत् ।
अयुतद्वितयावृत्त्या ह्यपमृत्युजयो भवेत् ।। ३९ ।।

अयुतत्रितयाच्चैव खेचरत्वं प्रजायते ।
सहस्रादयुतादर्वाक् सर्व कार्याणि साधयेत् ।। ४० ।।

लक्षावृत्त्या कार्यसिद्धिर्भवत्येव न संशयः ।। ४१ ।।

विषवृक्षस्यमूलेषु तिष्ठन् वै दक्षिणामुखः ।
कुरुते मासमात्रेण वैरिण विकलेंद्रियम् ।। ४२ ।।

औदुंबरतरोर्मूले वृध्दीकामेन जाप्यते ।
श्रीवृक्षमूले श्रीकामी तिन्तिण्याम् शांतिकर्मणि ।। ४३ ।।

ओजस्कामोSश्वत्थमूले स्त्रीकामैः सहकारके ।
ज्ञानार्थी तुलसीमूले गर्भ गेहे सुतार्थीभिः ।। ४४ ।।

धनार्थीभिस्तु सुक्षेत्रे पशुकामैस्तु गोष्ठके ।
देवालये सर्वकामैस्तत्काले सर्वदर्शितम् ।। ४५ ।।

नाभिमात्रजले स्थित्वा भानुमालोक्य यो जपेत् ।
युद्धे वा शास्त्रवादे वा सहस्रेण जयो भवेत् ।। ४६ ।।

कंठमात्रे जले स्थित्वा यो रात्रौ कवचं पठेत् ।
ज्वरापस्मारकुष्ठादितापज्वर निवारणम् ।। ४७ ।।

यत्र यत्स्यात्स्थिरं यद्दत्प्रसन्नं तन्निवर्तते ।
तेन तत्र हि जप्तव्यं ततः सिद्धिर्भवेद्ध्रुवम् ।। ४८ ।।

इत्युक्त्वा च शिवो गौर्ये रहस्यं परमं शुभम् ।
यः पठेत् वज्रकवचं दत्तात्रेयसमो भवेत् ।। ४९ ।।

एवं शिवेन कथितं हिमवत्सुतायै
प्रोक्तं दलादनमुनयेSत्रिसुतेन पूर्वम् ।
यः कोSपि वज्रकवचं पठतीह लोके
दत्तोपमश्चरती योगिवरश्चिरायुः ।। ५० ।।

इति श्रीरुद्रयामले हिमवत्खंडे मंत्रशास्त्रे उपासनाकांडे शिवविजयसिद्धान्ते
उमामहेश्वरसंवादे श्रीदत्तात्रेयवज्रकवच स्तोत्रं संपूर्णम् ।।


कसा वाटला Shri Dattatreya Vajra Kavach Stotra | श्री दत्तात्रेय वज्रकवच स्तोत्र खालती comment करुन नक्की कळवा.

LEAVE A REPLY

Please enter your comment!
Please enter your name here